(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.101. अध्यायः 101
Mahabharata - Bhishma Parva - Chapter Topics
अभिमन्युनाऽलम्बुसस्य पराजयः ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-101-0x(4190)(43316)
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्।
अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय ॥ 6-101-1(43317)
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा।
तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे ॥ 6-101-2(43318)
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे ।
भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः ॥ 6-101-3(43319)
नकुलः सहदेवो वा सात्यकिर्वा महारथः ।
एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय ॥ 6-101-4(43320)
सञ्जय उवाच। 6-101-5x(4191)
हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम्।
यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ 6-101-5(43321)
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्॥ 6-101-6(43322)
तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः।
अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत् ॥ 6-101-7(43323)
अलम्बुसस्तु समरे अभिमन्युं महारथम् ।
विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ॥ 6-101-8(43324)
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् ।
अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः ॥ 6-101-9(43325)
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् ।
ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ ॥ 6-101-10(43326)
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ ।
मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः ॥ 6-101-11(43327)
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः।
आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः ॥ 6-101-12(43328)
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः ।
हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम् ॥ 6-101-13(43329)
ततः शरसहस्रेण क्षिप्रकारी निशाचरः ।
अर्जुनास सुतं सङ्ख्ये पीडयामास भारत ॥ 6-101-14(43330)
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः ।
बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि ॥ 6-101-15(43331)
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु।
स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः ॥ 6-101-16(43332)
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः ।
स संदधानश्च शरान्हेमपुङ्खान्महाबलः ॥ 6-101-17(43333)
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः ।
ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः ॥ 6-101-18(43334)
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः ।
तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः ॥ 6-101-19(43335)
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् ।
तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः ॥ 6-101-20(43336)
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् ।
सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः ॥ 6-101-21(43337)
चक्रे विमुखमासाद्य बलं शक्र इवाहवे ।
विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा ॥ 6-101-22(43338)
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् ।
ततस्ते तमसा सर्वे वृताश्चासन्महीपते ॥ 6-101-23(43339)
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे ।
अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः ॥ 6-101-24(43340)
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः ।
ततः प्रकाशमभवज्जगत्सर्वं महीपते ॥ 6-101-25(43341)
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः ।
संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः ॥ 6-101-26(43342)
छादयामास समरे शरैः सन्नतपर्वभिः।
बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा ॥ 6-101-27(43343)
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः।
हतमायं ततो रक्षो वध्यमानं च सायकैः ॥ 6-101-28(43344)
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्।
तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे ॥ 6-101-29(43345)
आर्जुनिः समरे सैन्यं तावकं संममर्द ह।
मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव ॥ 6-101-30(43346)
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम्।
महता शरवर्षेण सौभद्रं पर्यवारयत् ॥ 6-101-31(43347)
कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः ।
एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम् ॥ 6-101-32(43348)
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः ।
सदृशो वासुदेवस्य विक्रमेण बलेन च ॥ 6-101-33(43349)
उभयोः सदृशं कर्म स पितुर्मातुलस्य च ।
रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः ॥ 6-101-34(43350)
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् ।
आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः ॥ 6-101-35(43351)
तथैव समरे राजन्पिता देवव्रतस्तव ।
आससाद रणे पार्थं स्वर्भानुरिव भास्करम् ॥ 6-101-36(43352)
ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर ।
परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः ॥ 6-101-37(43353)
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् ।
रणाय महते युक्ता दंशिता भरतर्षभ ॥ 6-101-38(43354)
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।
अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ 6-101-39(43355)
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः ।
पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम् ॥ 6-101-40(43356)
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।
हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥ 6-101-41(43357)
शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् ।
गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम् ॥ 6-101-42(43358)
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् ।
द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः ॥ 6-101-43(43359)
समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः ।
अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ 6-101-44(43360)
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत।
अथैनं छिन्नधन्वानं ताडयामास सायकैः ॥ 6-101-45(43361)
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।
द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ 6-101-46(43362)
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः।
निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः ॥ 6-101-47(43363)
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।
वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत् ॥ 6-101-48(43364)
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् ।
वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा ॥ 6-101-49(43365)
अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् ।
चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह ॥ 6-101-50(43366)
पुनश्चैनं शरैर्घोरैश्छादयामास भारत।
निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ 6-101-51(43367)
सात्यकोऽपि महाराज शरजालं निहत्य तत्।
द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा ॥ 6-101-52(43368)
तापयामास च द्रौणिं शैनेयः परवारहा ।
विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ 6-101-53(43369)
शराणां च सहस्रेण पुनरेव समुद्यतः ।
सात्यकिश्छादयामास ननाद च महाबलः ॥ 6-101-54(43370)
दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् ।
अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ 6-101-55(43371)
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे ।
परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम् ॥ 6-101-56(43372)
सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् ।
द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ 6-101-57(43373)
तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः ।
अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ 6-101-58(43374)
ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।
यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ॥ 6-101-59(43375)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे एकाधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.